Patanjali Yog Sutr
There are 196 Sutr.
- Samadhi Paad--51
- Sadhan Paad--55
- Vibhuti Paad--56
- Kaivalya Paad--34
Samadhi Paad समाधिपाद
- अथ योगानुशासनम् ॥१॥ Now the self discipline of Yog
- योगश्चित्तवृत्तिनिरोधः ॥२॥ When all the vrittis of chitt are under control, the true Purush is revealed.
- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥ Swaroop is Nityasuchisukhatm. Nitya is eternal, Suchi is pure, Sukh is happiness and atma is indivisible
- वृत्ति सारूप्यमितरत्र ॥४॥ When not in Yog, we get identified with our thoughts.
- वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
- प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥६॥
- प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
- विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥८॥
- शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥
- अभावप्रत्ययालम्बना तमोवृत्तिर्निद्र ॥१०॥
- अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥
- अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥ Practice and dispassion are means to restrain mind
- तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
- स तु दीर्घकाल नैरन्तर्य सत्कारादरासेवितो दृढभूमिः ॥१४॥ Practice for long time, without break and with honor and attitude of service, results are firmly established.
- दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्णा वैराग्यम् ॥१५॥
- तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥
- वितर्कविचारानन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥
- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
- भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥
- श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
- तीव्रसंवेगानामासन्नः ॥२१॥
- मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
- ईश्वरप्रणिधानाद्वा ॥२३॥ Or by surrendering to the supreme power.
- क्लेश कर्म विपाकाशयैःपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
- तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
- स एष पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥
- तस्य वाचकः प्रणवः ॥२७॥
- तज्जपः तदर्थभावनम् ॥२८॥
- ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥
- व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥ Illness,dullness,doubt,carelessness,laziness,boredom,delusion,despondency,nonsteadfastness are some obstacles in practice of Yog.
- दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥ Daurmanasya is frustation, angemejayatva is unsteadiness or nervousness, shavasa prashvasa vikshepa is disturbed breathing.
- तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
- मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥ Peace of mind is achieved by cultivating friendship towards the happy, compassion towards the suffering, Joy for those who are virtuous and indifference regarding vice.
- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥
- विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥
- विशोका वा ज्योतिष्मती ॥३६॥ Or, a pravitti that is sorrowless and filled with light(Lotus of heart).
- वीतराग विषयम् वा चित्तम् ॥३७॥ Or, a Chitt whose thoughts have transcended attachment(a person who is enlightened).
- स्वप्ननिद्रा ज्ञानालम्बनम् वा ॥३८॥ Or, the support of the knowledge from dreams and sleep.
- यथाभिमतध्यानाद्वा ॥३९॥
- परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
- तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥
- स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
- एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥
- सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥
- ता एव सबीजस्समाधिः ॥४६॥
- निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥
- ऋतंभरा तत्र प्रज्ञा ॥४८॥
- श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
- तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥
- तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥
Sadhan Paad साधनपाद
- तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
- समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥
- अविद्यास्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥
- अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥
- दृग्दर्शनशक्त्योरेकात्मतैवास्मिता ॥६॥
- सुखानुशयी रागः ॥७॥
- दुःखानुशयी द्वेषः ॥८॥
- स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः ॥९॥
- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
- ध्यान हेयाः तद्वृत्तयः ॥११॥
- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
- सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
- ते ह्लाद परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
- परिणाम ताप संस्कार दुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥
- हेयं दुःखमनागतम्॥१६॥
- द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥
- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
- द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
- तदर्थ एव दृश्यस्यात्मा ॥२१॥
- कृतार्थं प्रतिनष्टंप्यनष्टं तदन्य साधारणत्वात् ॥२२॥
- स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः ॥२३॥
- तस्य हेतुरविद्या ॥२४॥
- तदभाबात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
- विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
- तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥
- योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
- यम नियमासन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥Although there is a journey from Yam/Niyam to Samadhi, it still is an iterative process and one limb strengthens the other and they all move cohesively together toward the final state of Kaivalya.
- अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः ॥३०॥
- जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
- शौच संतोष तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
- वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥
- वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहापूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिप्रक्षभावनम् ॥३४॥
- अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्याघः ॥३५॥
- सत्यप्रतिष्थायं क्रियाफलाश्रयत्वम् ॥३६॥
- अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
- ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ॥३८॥
- अपरिग्रहस्थैर्ये जन्मकथंता संबोधः ॥३९॥
- शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
- सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन योग्यत्वानि च ॥४१॥
- संतोषातनुत्तमस्सुखलाभः ॥४२॥
- कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥
- स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥
- समाधि सिद्धिःीश्वरप्रणिधानात् ॥४५॥
- स्थिरसुखमासनम् ॥४६॥ Asan is a stable and comfortable posture.
- प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥Asan is effortless integration of one with the higher self.
- ततो द्वङ्द्वानभिघातः ॥४८॥
- तस्मिन् सति श्वासप्रश्वास्योर्गतिविच्छेदः प्राणायामः ॥४९॥ Slowing inhalation and exalation is pranayam.
- बाह्याभ्यन्तरस्थम्भ वृत्तिः देशकालसन्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥Three parts of pranayam are bahya/external, abhyantar/internal and stambh/cessation. One needs to be aware of desh or length of breath, kal or duration of breath, and sankya or number of breath. Breath needs to be deergh or long and subtle or sukshm.
- बाह्याभ्यन्तर विषयाक्षेपी चतुर्थः ॥५१॥ In fourth stage we transcend external and internal operations.
- ततः क्षीयते प्रकाशावरणम् ॥५२॥ With this practice, the veil that covers the light(of knowledge) is removed.
- धारणासु च योग्यता मनसः ॥५३॥ And a readiness of the mind for holding a point of focus.
- स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकारैवेन्द्रियाणां प्रत्याहारः ॥५४॥ Pratyahar is the withdrawal of powers of perception and action, by separating the essential nature of mind from the perception of the objects.
- ततः परमावश्यता इन्द्रियाणाम् ॥५५॥
Vibhuti Paad विभूतिपाद
- देशबन्धः चित्तस्य धारणा ॥१॥ Concentration or Dharana is the fixation of mind at one point.
- तत्र प्रत्ययैकतानता ध्यानम्॥२॥Dhyan is continuous flow of similar mental modifications.
- तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥ In Samadhi only the object of concentration shines. There is no ego left.
- त्रयमेकत्र संयमः ॥४॥ Samyam is Dharna, Dhyan, and Samadhi on one object.
- तज्जयात् प्रज्ञालोकः ॥५॥
- तस्य भूमिषु विनियोगः ॥६॥
- त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥
- तदपि बहिरङ्गं निर्बीजस्य ॥८॥
- व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥
- तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥
- सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
- ततः पुनः शातोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः ॥१३॥
- शानोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
- क्रमान्यत्वं परिणामान्यतेवे हेतुः ॥१५॥
- परिणामत्रयसंयमाततीतानागत ज्ञानम् ॥१६॥
- शब्दार्थप्रत्ययामामितरेतराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
- संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
- प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
- न च तत् सालम्बनं तस्याविषयी भूतत्वात् ॥२०॥
- कायरूपसंयमात् तत्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् ॥२१॥
- एतेन शब्दाद्यन्तर्धानमुक्तम्॥२२॥
- सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरान्तज्ञानम् अरिष्टेभ्यो वा ॥२३॥
- मैत्र्यदिषु बलानि ॥२४॥
- बलेषु हस्तिबलादीनी ॥२५॥
- प्रवृत्त्यालोकन्यासात् सूक्ष्माव्यावहितविप्रकृष्टज्ञानम् ॥२६॥
- भुवज्ञानं सूर्येसंयमात् ॥२७॥
- चन्द्रे तारव्यूहज्ञानम् ॥२८॥
- ध्रुवे तद्गतिज्ञानम् ॥२९॥
- नाभिचक्रे कायव्यूहज्ञानम् ॥३०॥
- कन्ठकूपे क्षुत्पिपासा निवृत्तिः ॥३१॥
- कूर्मनाड्यां स्थैर्यम् ॥३२॥
- मूर्धज्योतिषि सिद्धदर्शनम् ॥३३॥
- प्रातिभाद्वा सर्वम् ॥३४॥
- ह्र्डये चित्तसंवित् ॥३५॥
- सत्त्वपुरुषायोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम् ॥३६॥
- ततः प्रातिभस्रावाणवेदनादर्शास्वादवार्ता जायन्ते ॥३७॥
- ते समाधवुपसर्गाव्युत्थाने सिद्धयः ॥३८॥
- बद्न्हकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३९॥
- उदानजयाअत् जलपण्खकण्टकादिष्वसङ्गोऽत्क्रान्तिश्च ॥४०॥
- समानजयाज्ज्वलनम् ॥४१॥
- श्रोत्राकाशयोः संबन्धसंयमात् दिव्यं श्रोत्रम् ॥४२॥
- कायाकाशयोः संबन्धसंयमात् लघुतूलसमापत्तेश्चाकाश गमनम् ॥४३॥
- बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः ॥४४॥
- स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४५॥
- ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धरानभिघात्श्च ॥४६॥
- रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४७॥
- ग्रहणस्वरूपास्मितावयार्थवत्त्वसंयमातिन्द्रिय जयः ॥४८॥
- ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४९॥
- सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥५०॥
- तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५१॥
- स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५२॥
- क्षणतत्क्रमयोः संयमात् विवेकजंज्ञानम् ॥५३॥
- जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥५४॥
- तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ॥५५॥
- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५६॥
Kaivalya Paad कैवल्यपाद
- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥१॥
- जात्यन्तरपरिणामः प्रकृत्यापूरात्॥२॥
- निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥३॥
- निर्माणचित्तान्यस्मितामात्रात्॥४॥
- प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्॥५॥
- तत्र ध्यानजमनाशयम्॥६॥
- कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्॥७॥
- ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्॥८॥
- जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्॥९॥
- तासामनादित्वं चाशिषो नित्यत्वात्॥१०॥
- हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः॥११॥
- अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्॥१२॥
- ते व्यक्तसूक्ष्मा गुणात्मानः॥१३॥
- परिणामैकत्वाद्वस्तुतत्त्वम्॥१४॥
- वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः॥१५॥
- न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥१६॥
- तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्॥१७॥
- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्॥१८॥
- न तत्स्वाभासं दृश्यत्वात्॥१९॥
- एकसमये चोभयानवधारणम्॥२०॥
- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च॥२१॥
- चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्॥२२॥
- द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्॥२३॥
- तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्॥२४॥
- विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः॥२५॥
- तदा विवेकनिम्नङ्कैवल्यप्राग्भारञ्चित्तम्॥२६॥
- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः॥२७॥
- हानमेषां क्लेशवदुक्तम्॥२८॥
- प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः॥२९॥
- ततः क्लेशकर्मनिवृत्तिः॥३०॥
- तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्॥३१॥
- ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्॥३२॥
- क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः॥३३॥
- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥३४॥
https://www.youtube.com/watch?v=Bc5UHKO3wWc&list=WL&index=57
Bharti Raizada
Patanjali Yoga Mantra
Invocation of Rishi Patanjali
योगेन चित्तस्य पदेन वाचां । मलं शरीरस्य च वैद्यकेन ॥
योऽपाकरोत्तमं प्रवरं मुनीनां । पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
Yogena chittasya padena vacham | Malam sharirasya cha vaidyakena ||
Yopakarottam pravaram muninam | Patanjalim pranjaliranato’smi ||
आबहु पुरुषाकारं । शङ्खचक्रासि धारिणं ॥
सहस्र शीरसं श्वेतं । प्रनमामि पतञ्जलिम् ॥
Abhahu purushakaram Sankha chakrasi dharinam |
Sahasra shirasam shvetam Pranamami Patanjalim ||
ॐ शान्तिः शान्तिः शान्तिः ॐ॥
Meaning
I pay gratitude to the Rishi Patanjali who gave us yoga (yogena) for purifying the mind (chitt), words (pada), and speech (vaach) and to remove the impurities (mala) of the body (sharirasya). He also gave us the medicine (vaidyakena).
Allow me to go near to the one who has given these things to us.
To Patanjali, I bow down my head with folded hands. Whose upper body has a human form (purushakaram), whose arms hold a conch (shanka chakrasi), a disc, and a sword. The one who is crowned by a radiant white (svetam) thousand headed (sahasra shirasam) cobra. My salutations (pranamami) or pranam to the incarnation of Adishesh.
Learning of any kind cannot happen unless you have the humility to learn, hence when we chant the invocation mantra at the beginning of the practice visualizing Rishi Patanjali, we acknowledge that we are very small. Once that is understood, the other afflictions mainly the ego start to go away and we realize that we are ready to learn. This helps in surrendering oneself to the practice and the process of sanctification begins from inside.